Tuesday, 17 July 2018

Ik Ongkar Sat Naam

इक् ओङ्कार् सत् नाम्

एषः श्री गुरु नानक देवस्य प्रसिद्धःउपदेशम् अस्ति।
एतस्मिन् चत्वारि शब्दाः सन्ति।
प्रथमः इक् इति।
एषः संस्कृतस्य एकः इति शब्देव निर्देशति।
ओङ्कार् शब्दः सदा सर्वत्र सर्वकालेषु उपस्थित ओम् इति घोषम् निर्देशति।
एषः घोषः अस्माकम् कर्णछिद्रे अन्तरे अनायासेन श्रूयते।
एषः एकः अनाहत शब्दः अस्ति। अति उत्तमः।
एतस्य विषेशः, एषः धारावत् सदा भवति। किञ्चित् समये अपि न विरामः भवति।

सत् इति शब्दः सत्यम् उच्यते। सत्यम् इति किम्?
इह सत्यम् यदा सदैव भवति तत् निर्देशति।
वयम् ओङ्कार् घोषम् जाग्रत अवस्थासु श्रुण्मः, परम् योगीनाम् अकथयत् एषः सर्वेषु अवस्थासु भवति च श्रुणोति।
एवम् एषः सत्यवस्तु: इति । 
इह नाम् इति शब्दस्य अर्थः किम्?
नाम् इति शब्दः ध्वनिः निर्देशति मा जनाः अथवा वस्तूनि नामानि ।
एवम् इक् ओङ्कार् सत् नाम् वाक्यानाम् सरलार्थः इति- अस्माकम् सर्वेषु शरीरेषु अन्तरे दक्षिणकर्णेषु यत् शब्द्म् वयम् सदा श्रुणोति यत् ओम्कारम् इति योगीनाम् उच्यते, तदेव ब्रह्म: अस्ति। 

राधा इति का? Who is Radha?

हरिः ओम्।

राधा अपि कृष्णः सूर्यः च तस्य भर्गः समानः। यर्हि सूर्यम् विना तस्य भर्ग न विद्यते, तर्हि राधां विना कृष्णः न भवति।
राधा इति शब्दार्थः किम् ?
प्रथमा सा चित् स्वरूपवत् एका धारा अस्ति। विराम विना एका प्रवाहः इति भवति।
द्वितीया राधैव एतैषु सृष्टिषु आधारः। तस्याः उपरि एव एतद् सृष्टिः भवति।
तृतीया सा एव सकल देवेषु आराधयितुम् उत्कृष्टः। एवम् सा एव आराध्यः ।​
राधा नाम्नि रा इति अक्षरः तस्याः रासधर्मम् सूचते। सा एव अस्माभिः सह रासक्रीडाम् करोति।
सा एव अस्माकम् सकल आनन्देषु भवति।
धा इति अक्षरः तस्याः धारणधर्मम् सूचते। सा एव अस्माकम् मातेव पोषति । सा एव वयम् अस्मितायाम् सृष्टिकर्त्री च धात्री।
प्रलयाकाले सा एव अस्मितायाम् हन्त्री।
उत्तरम् सा एकैव भवति न कश्चित् द्वितीया ।
_____________________________________________________

सर्वेभ्य​: एका प्रार्थना-  कृपया शोधनानि आदिशन्तु ।

धन्यवादः । हरिः ओम्।